Skip to main content

संस्कृतेनैव संस्कृतिः - पूज्यश्री ओङ्कारानन्द महास्वामिनः

ओं
श्रीगुरुभ्यो नमः
पूज्यश्री ओङ्कारानन्द महास्वामिनः

संस्कृतेनैव संस्कृतिः



 (कोयम्परी नगरे विकृतिनाम - संवत्सरे चातुर्मासस्य व्रतपुण्यकाले, विद्यार्थिनां कृते संस्कृतभाषया कृतस्य अनुग्रहभाषणसारः)

संस्कृतभाषायाः महिमा सर्वे जानन्ति एव। सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया इति वदामः वयम् । 

अस्माकं देशस्य संस्कृति विषयाः सर्वे संस्कृत भाषायाम एव वर्तन्ते इति वयं जानीमः। यद्यपि प्रान्तीय भाषासु अपि अस्माकं संस्कृति विषयाः बहवः सन्ति, तथापि तस्याः मूलं तु संस्कृतभाषा एव, इत्यस्मिन विषये यस्यकस्यापि द्वितीयः अभिप्रायः न भवत्येव। तस्मात् संस्कृतभाषायाः प्रवर्धनार्थम् इतोऽपि सर्वजनेषु संस्कृतभाषा प्रचारार्थं यत् प्रयत्नम् अस्माभिः क्रियते तस्मिन् विषये अस्माकं मनसि केचन विषयाः संस्थापनीयाः। 

अस्माकं शास्त्रं वेदः एव । वेदः नाम ज्ञानम् इत्यर्थः। ज्ञानस्य विषयः कः? ज्ञानस्य विषयः घटः अपि भवति। ज्ञानस्य विषयः उपनेत्रमपि भवति। ज्ञानस्य विषयः बहवः सन्ति। तथापि वेदः इति वदामः चेत्, अतीन्द्रियः विषयः ज्ञानम् एव वेदः उपदिशति। तत्र कश्चन श्लोकः वर्तते। 

प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते।

एनं विदन्ति वेदेन तस्मात् वेदस्य वेदता॥

वेदस्य लक्षणम् अस्मिन् श्लोके वर्तते। वेदो नाम कः? वेदे यत् उच्यते तत् इन्द्रियद्वारा द्रष्टुं न शक्यते । 

वेदः शरीरस्य अन्तः जीवः वर्तते इति वदति। वृक्षेषु जीवः वर्तते। अस्माकं शरीरे अपि जीवः वर्तते। जीवः वेदेनैव बोध्यते। जीवः न प्रत्यक्षः। जीवः न अनुमेयः। शास्त्रेणैव ज्ञायते परन्तु तत्र प्रत्यक्ष साहाय्यं वर्तते। प्रत्यक्षप्रमाणं प्रबलप्रमाणमेव। किन्तु प्रत्यक्षाविरोध विषयमेव वेदः अस्मान् बोधयति ।

ईश्वरं द्रष्टुं न शक्नुमः। ईश्वरं कः पश्यति? जीवमपि द्रष्टुं न शक्नुमः। जीवः क? तस्य वर्णः कः? तस्य परिमाणः कीदृशः इति ज्ञातुं शक्यते वा? नैव। 

वेदः एव वदति जीवस्य स्वरूपम्। ईश्वरस्य स्वरूपमपि वेदः एव वदति। अनन्तरं स्वर्गः, नरकः, पुण्यं, पापं, पुनर्जन्म इत्यादि सर्वे विषयाः अतीन्द्रिय विषयाः एव। एतत्सर्वम् अवगन्तुं नैव शक्यते। परन्तु वयं वेद-वाक्यानि अङ्गीकुर्मः चेत्, श्रद्धीकुर्मः चेत्, अस्माकं जीवने क्लेशः न भवति।

यदि वेदम् अस्माकं जीवने मार्गदर्शकत्वेन स्वीकुर्मः तर्हि अस्माकं जीवने मोहः न भवति एव। मोहनिवृत्तिः एव भवति। जीवनं यद्यपि कष्टं स्यात, कष्टतरं स्यात, कष्टतमं स्यात्, तथापि तान्सर्वान् कष्टान् निवारयितुं वेदधर्मेण एव शक्यते। वेद-धर्म अनुष्ठानेनैव शक्यते। 

संस्कृतभाषां पठितुं वयम् इच्छामः। संस्कृतभाषां ज्ञात्वा संस्कृतभाषायां यानि यानि पुस्तकानि सन्ति तानि सर्वाणि पुस्तकानि अस्माभिः पठितुं न शक्यते। तथापि तेषु ग्रन्थेषु उक्तान् विषयान् अवगन्तुं शक्नुमः। एवमेव संस्कृतग्रन्थानां पाठनं तयैव भाषया सुलभतया पाठयितुं शक्यते। अन्यभाषया पाठनस्य अपेक्षया मूलभाषात्वेन विद्यमानया संस्कृतभाषया पाठनं तु अतीव सुलभमेव। अनया पद्धत्या यदि पाठ्यते तर्हि शीघ्रतया शिष्यः अपि उन्नतस्थानं प्राप्नोति। गुरुः अपि उन्नतस्थान प्राप्नोति।

एवं किमर्थं वदामि चेत् संस्कृतेन विना संस्कृतिः न भवति। संस्कृतेन विना संस्कृतिः पङ्गुः भवति। 

वेदः अस्माकं मूलग्रन्थः। एतावत् पर्यन्तं वेदः येनकेनापि प्रकारेण रक्षितः अभूत्। वस्तुतः वेदः स्वं स्वयमेव रक्षति। तदर्थं वयं निमित्तमात्रं भवेम। अस्माकं जीवनस्य लक्ष्यबोधनं वेदः एव ददाति इति अन्यः मुख्यः विषयः।

वयं किमर्थं जन्म प्राप्तवन्तः इति न जानीमः। किमर्थम् ईश्वरः एतत् शरीरं दत्तवान्? अस्मिन् जीवने किं करणीयं किं न करणीयम् इति वयं न जानीमः। तस्मात् एव अस्माकं मनुष्यजन्मनः पूर्वम् एव अत्र शिष्टाः वर्तन्ते। शास्त्रं वर्तते। संस्कृतभाषा वर्तते। संस्कृतभाषायां बोधयितुम् आचार्याः वर्तन्ते।

वयं किमपि वस्तु आपणेषु क्रीणीमः चेत् तेन वस्तुना सह तत् वस्तु कथं प्रयोक्तव्यम् इति एकास्तिका दास्यन्ति। तत्र विषयाः सन्ति। कथम एतत वस्तु अस्माभिः उपयोक्तव्यम इति मार्गदर्शन वर्तते। तद्वत् अस्मिन् सृष्टौ ईश्वरः अस्माभिः कथं जीवनं कर्तव्यं, कथं व्यवहर्तव्यम् इति पूर्वमेव वेदरूपेण दत्तवान्। 

सहयज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक ॥

इति भगवद्गीतायां तृतीयोऽध्याये उक्तम्।

अत्र सहयज्ञाः इत्युक्ते यज्ञेन सह - यज्ञः नाम जीवनशैली, जीवनक्रमः अनेन क्रमेण एव जीवनं करणीयम्।

विवेकचूडामण्यां शङ्करभगवद्पादाचार्याः वदन्ति –


श्रुतिप्रमाणैकमतेः स्वधर्मनिष्ठा तयैवात्मविशुद्धिरस्य।

विशुद्धबुद्धेः परमात्मवेदनं तेनैव संसारसमूलनाशः॥ 

श्रुतिः एव अस्माकं ज्ञानसाधनम्। श्रुतिः नाम वेदः। गुरुः उच्चारणं करोति, शिष्यः अनुच्चारणं करोति। एतदेव कर्णपरंपरा, श्रुतिपरंपरा इति उच्यते । गुरुः प्रतिदिनं सन्ध्यावन्दनं, गायत्रीजपादिकं सर्वम् अनुष्ठाय हृदये वेदं संरक्षति। अतः गुरोः वाक्येषु मन्त्रशक्तिर्भवति।

वेदज्ञाः शक्तिपर्वक वेदमन्त्रान संरक्षन्ति। ते एव उच्चारणं कुर्वन्ति। तत्र दैवशक्तिः वर्तते। मन्त्रशक्तिः वर्तते। मन्त्रशक्त्या तत्र उच्चारणं कुर्वन्ति। शिष्याः द्विवारम् अनुच्चारणं कुर्वन्ति। तथैव शिष्यस्य हृदये वेदः गच्छति। तत्र श्रुतौ बहवः विषयाः सन्ति। 

शङ्कराचार्यः कठोपनिषत् भाष्ये वदति - मातृपितृसहस्रेभ्योऽपि हितैषी वेदः इति। श्रतिप्रमाणेन एकमतिः भवतु। 

वेदः धर्म-अर्थ-काम-मोक्ष इति चतुर्विध पुरुषार्थान् बोधयति। अस्माकं जीवनस्य परमपुरुषार्थं मोक्षः एव। मोक्षः तु ज्ञानादेव लभ्यते। धर्मानुष्ठानेनैव ज्ञानयोग्यतासिद्धिः।

मृतं शरीरम् उत्सृज्य काष्ठलोष्ट समं क्षितौ।

विमुखाः बान्धवा यान्ति धर्मस्तमनुगच्छति॥

- मनुस्मृतिः। 

धर्म एको एव जीवम अनुसरति इति धर्मस्य वैशिष्ट्यम्। वेदः बोधयति - धर्मो विश्वस्य जगतः प्रतिष्ठा। अस्माकं जीवने धर्मः एव अतीव मुख्यम्। आचारः नाम क्रमजीवनम्। प्रातः आरभ्य रात्रि पर्यन्तं क्रमजीवनम एव आचारः धर्मः इत्युच्यते।

आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः॥

इति विष्णुसहस्रनाम फलश्रुतिः। अन्यत्र च उक्तम् आचारहीनं न पुनन्ति वेदाः।

यद्यपि वेदः विस्मतः तथापि पुनः स्मरणं कर्तुं शक्यते। परन्तु यदि आचारः गच्छति जन्म एव नष्टः भवति इति तिरुवल्लुवर कथयति। तस्मात् आचारः आवश्यकः।

संस्कृत पठनं किमर्थम् इत्युक्ते अस्माकं सस्कृति वर्धनार्थम्। अस्माकं संस्कृतेः संरक्षणार्थं संस्कृतभाषा पठनीया। संस्कृतभाषा पठनेन संस्कृति रक्षणं कर्तुं शक्नुमः। संस्कृति संरक्षणेन धर्म रूपेण सर्वत्र ऐक्यं भवति। यदि ऐक्यं भवति तर्हि विरोधः गच्छति एकत्वं भवति।

तस्मात् संस्कृतभाषा सम्यकपठनीया।

संस्कृतभाषायां ये ये ग्रन्थाः सन्ति तान् सर्वान् पठितुं प्रयत्नं कुर्मः। संस्कृतज्योतिं पुनः उज्जीवयामः। तदर्थं सङ्कल्पं कुर्मः। भगवन्तं सर्वदा प्रार्थयामः। तदर्थम् अस्माकं मनसि धृतिः सर्वदा भवतु इति भगवन्तं सद्गरं च संप्रार्थ्य नमस्कत्य भवतः सर्वान अनुगह्णामि। आशीर्वचनानि च वदामि।

सर्वं शुभं भूयात्।

लोकाः समस्ताः सुखिनो भवन्तु।।

Comments

Popular posts from this blog

Samskrita Speech on Madhura Bhasha Samskritam by Kumari. Krishna Balachandran

  Madhura Bhasha Samskritam - Samskrit Speech

தேசிய எழுச்சிக்கு இன்றைய தேவை கீதையும், ஸம்ஸ்க்ருதமுமே, திரு. R.B.V.S. மணியன் அவர்களின் சிறப்புரை.

 

pravesha Audio

pravesha Grammar 1, 2,3 books